Jump to content

ବ୍ୟବହାରକାରୀ:Mahalaxmi008

ଉଇକିପିଡ଼ିଆ‌ରୁ

बहुमूल्यं मानवजीवनं कदापि नष्टं न कर्तव्यम्। अस्माकं सर्वेषां जीवनं न केवलं अस्माकं कृते अपितु अस्य देशस्य, समाजस्य, परिवारस्य च कृते महत्त्वपूर्णम् अस्ति। दैनिकवार्तापृष्ठेषु दूरदर्शनपट्टिकासु च दुर्घटनानां दुःखदकथाः वयं पश्यामः। एतेषु केचिद्दुर्घटना स्वाभाविका अन्ये च मानवप्रमादात् । एकस्मात् स्थानात् अन्यस्मिन् स्थाने गन्तुं वाहनानां उपयोगं कुर्वन्ति ।

अद्यतनव्यस्तजीवने सर्वे अन्येभ्यः अपेक्षया शीघ्रं गन्तव्यस्थानं प्राप्तुम् इच्छन्ति, यस्मात् कारणात् प्रतिदिनं दुर्घटनाः भवन्ति । अपरिपक्वेन चालकेन वाहनचालनं, वेगसीमायाः उपरि वेगेन गमनम्, सुरक्षापरिपाटानां अवहेलना, यातायातनियमानां न पालनम्, दुर्बलमार्गस्य स्थितिः,मादकद्रव्यस्य प्रभावेण वाहनचालनम् इत्यादयः अपि गम्भीरदुर्घटनानां उत्तरदायीनः भवन्ति । अतः सर्वदा मार्गसुरक्षा नियमानानां पालनं करणीयम् ।

मार्गसुरक्षानियमानाम् अनुसरणं कृत्वा एतानि सर्वाणि मार्गदुर्घटनानि वयं निवारयितुं शक्नुमः ।